उत्तर प्रदेश

नत्थेसिंहस्य हस्ताभ्यां निर्मितः स्वतन्त्रभारतस्य प्रथमराष्ट्रध्वजः

– अद्य ‘हर-घर-तिरङ्गा’ इति अभियानं सफलीकर्तुं संयुक्तः अस्ति कुटुम्बः

– मेरठस्य नत्थेसिंहस्य हस्तयोः निर्मितः स्वतन्त्रभारतस्य प्रथमत्रिवर्णः

– मेरठस्य ध्वजानां भवति सम्पूर्णदेशे याचना, नत्थेसिंहस्य कुटुम्बः अद्य अपि निर्वहति परम्परा

– सर्वकारस्य अभियानं ‘हर-घर-तिरङ्गा’ इत्यनेन वर्धितः वृत्तेः अवसरः

– स्वतन्त्रतायाः अमृतमहोत्सवायोजनस्य सज्जता तीव्रा

मेरठ, 10 अगस्त। देशस्य अभिमानम् अस्ति त्रिवर्णध्वजः। स्वतन्त्रतायाः पञ्चसप्ततिवर्षस्य उपलक्ष्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः अस्मिन् पर्याये अगस्तमासस्य पञ्चदशदिनाङ्के ‘हरदृघरदृतिरङ्गा’ इति अभियानस्य घोषणा कृता। प्रधानमन्त्रिणः घोषणानन्तरम् उत्तरप्रदेशस्य योगिसर्वकारः एतं सफलीकर्तुं पूर्णमनोयोगेन संलग्नः अस्ति। भवन्तः विज्ञाय आश्चर्य करिष्यन्ति यत् ध्वजस्य रूपरेखा यद्यपि स्वतन्त्रतासङ्ग्रासेनानिना पिङ्गलीवेंकैयामहोदयेन सज्जीकृता आसीत् परन्तु स्वतन्त्रभारते राष्ट्रध्वजं स्वहस्ताभ्यां सज्जीक्रियमाणः सर्वतोप्रथमः जनः उत्तरप्रदेशस्य नत्थूसिंहः एव आसीत्।

क्रान्तिधरायां मेरठे निर्मितः आसीत् स्वतन्त्रभारतस्य प्रथमत्रिवर्णध्वजः

सम्पूर्णदेशे स्वतन्त्रतायाः अमृतमहोत्सवस्य सज्जता तीव्रतया सञ्चलति। वार्ता यदि देशस्य स्वतन्त्रायाः आगच्छतु तदा क्रान्तिधरायाः मेरठस्य नाम सर्वतोपूर्वम् आगच्छति। देशस्य स्वतन्त्रतायाः क्रान्तिः एतस्याः धरातः प्रस्फुटितः अपि च स्वतन्त्रतायाः अनन्तरं प्रथमत्रिवर्णध्वजः अपि अस्यां क्रान्तिधरायां निर्मितः आसीत्।

नत्थे सिंहेन उक्तम् आसीत् स्वतन्त्रभारतस्य प्रथमत्रिवर्णध्वजः

1925तमे वर्षे जन्मः मेरठस्य सुभाषनगरनिवासिना नत्थेसिंहेन स्वतन्त्रभारतस्य प्रथमत्रिवर्णध्वजः निर्मितः। तस्मिन् काले नत्थेसिंहस्य वयः अनुमानितः द्वाविंशतिवर्षीयः आसीत्। तेन तदारभ्य त्रिवर्णध्वजनिर्माणम् एव स्वस्य जीवनस्य उद्देश्यं निर्मितम्। नत्थेमहोदयेन सह तस्य कुटुम्बः अपि त्रिवर्णध्वजनिर्माणकार्ये संलग्नः अभवत्। वर्षे 2019तमे वर्षे नत्थेसिंहः अस्याः राष्ट्रभक्तेः कार्यं सम्पादितं कुर्वता बैकुण्ठं प्रति गतः।

त्रिवर्णध्वजनिर्माणे संलग्नः अस्ति कुटुम्बः

नत्थेसिंहस्य मृत्योपरान्तम् अधुना तस्य पुत्रः रमेशचंदः स्वकुटुम्बेन सह त्रिवर्णध्वजनिर्माणस्य कार्यं करोति। रमेशस्य पत्नी अपि च द्वे पुत्रे अपि त्रिवर्णध्वजनिर्माणं सहयोगः कुर्वतः। कथयतः यत् आवां स्वीयं गौरवम् अनुभवामि यतोऽहि स्वतन्त्रभारतस्य अभिमानं त्रिवर्णध्वजनिर्माणस्य सौभाग्यं सर्वतोप्रथमः अस्माकं पित्रे (श्वसुराय) प्राप्तम् अपि च अधुना आवाम् अपि त्रिवर्णध्वजनिर्माय देशस्य सेवाम कुर्वतः।

संसदे उपवेशनान्तरं नत्थेसिंहस्य उपरि आगतं दायित्वं

नत्थेसिंहस्य पुत्रेण रमेशेन स्मरणं कुर्वता उक्तं यत् तस्य पिता उक्तवान् यत् यदा देशः स्वतन्त्रः अभवत् अपि च संसदभवने उपवेशनम् अभवत्, तदनन्तरं क्षेत्रीयगान्धिदृआश्रमाय मेरठाय प्रप्रथमं त्रिवर्णध्वजनिर्माणस्य कार्यं प्रदत्तम्। अत्र स्वतन्त्रभारतस्त प्रथमं राष्ट्रध्वजं निर्माणस्य दायित्वं नत्थेसिंहाय एव दत्तम्।

प्रतिवेशिना दत्तं तैलं तदा आवृत्तदीपिकायाः प्रकाशे निर्मितः त्रिवर्णध्वजः

रमेशेन उक्तं यत. तस्मिन् काले अस्माकं गृहे विद्युत न भवति स्म। अस्माकं गृहे पर्याप्ततैलम् अपि नासीत् आवृत्तदीपिकां ज्वालयितुम्। तदा पित्रा (नत्थेसिंहेन) प्रतिवेशिनां गृहात् तैलं याचयित्वा आवृत्तदीपिका ज्वालिता, यस्य प्रकाशे ध्वजनिर्माणस्य कार्यम् आरब्धम्। सः दिवसः आसीत् अपि च अद्य दिवसः अस्ति मेरठे त्रिवर्णध्वजनिर्माणस्य व्यवसायः बहु अधिकः सञ्चलितः। अद्य सम्पूर्णदेशे मेरठस्य निर्मितस्य त्रिवर्णध्वजस्य अधिका आवश्यकता भवति। सर्वकारिकार्यालयः भवतु अपि च वैयक्तिकसंस्थानं, सर्वेषु मेरठस्य तिरङ्गा एव तरङ्गमयः भवति।

अन्वेषणेन अपि न मिलति तिरङ्गानिर्माता

प्रधानमन्त्रिणः घोषणा अपि च मुख्यमन्त्रिणः योगिनः प्रयासानां परिणामस्वरूपं प्रदेशे त्रिवर्णध्वजनिर्माणस्य कार्यं तीव्रतया सञ्चलति। अनेन ध्वजनिर्मातृणां जनानां वृत्तिः बहु अधिका वर्धिता अपि च अधुना तु ध्वजनिर्मातृभ्यः संविदाकर्तृभ्यः निर्माता प्राप्तिः अपि कठिना अभवत्, यतोऽहि ध्वजस्य आवश्यकता अधिका अस्ति अपि च निर्मातृणां संविदाकर्तृणां सङ्ख्या बहुन्यूना अस्ति। अनेन न्यूनातिन्यूनं एतत् तु सिद्धम् अभवत् यत् अधुना राष्ट्रध्वजेन त्रिवर्णध्वजद्वारा देशस्य अभिमानेन सहैव जनेभ्यः वृत्त्यः अवसराः अपि वर्धिताः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button

Adblock Detected

Please consider supporting us by disabling your ad blocker